________________
अध्यात्म
सार:
||१२४॥
- कर्णेन्द्रियविषयान् प्रति योगिनां मानसम् - 'सुविशालरसालमञ्जरी-विचरत्कोकिलकाकलीभरैः ।
किमु माद्यति योगिनां मनो निभृताऽनाहतनादसादरम् ॥३॥ टीका:-अत्यन्तविशालस्याग्रस्य मञ्जरीषु विचरतः सत आनन्दमनुभवतः कोकिलस्य सूक्ष्ममधुरसमहैः, आत्यन्तिकानाहतनामकनादश्रवणे सादरं ससत्कारं योगिनां मनः किमु माद्यति-प्रमोदमत्तं भवति ? अर्थान्न भवत्येवेति ॥३॥
__-पुनरेनं विषयं समर्थयते'रमणीमृदुपाणिकङ्कण-क्वणनाकर्णनपूर्णघूर्णनाः ।
अनुभूतिनटीस्फुटीकृत-प्रियसङ्गीतरता न योगिनः ॥१॥ टीकाः-अनुभूतिनट्या=चिदानन्दरूपस्वस्वरूपानुभवनामकनटीद्वारा स्पष्टीकृतप्रियसङ्गीते रतिमन्तो योगिनः, रमण्याः कोमलकरस्थितकङ्कणानां क्वणनस्य--शब्दस्याकर्णनेन-श्रवणेन पूर्णघूर्णनाः-मस्तकधृननादिक्रियावन्तो न भवन्त्येवेति ॥४॥
8॥१२४॥
Jain Education Internatio
Far Private & Personal use only
|www.jainelibrary.org