SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सार ॥१२३॥ -वैराग्यविषयकोऽधिकारः सप्तमः -विषयगुणभेदाद् वैराग्यं विविधम्'विषयेषु गुणेषु च द्विधा, भुवि वैराग्यमिदं प्रवर्तते । अपरं प्रथम प्रकीर्तितं. परमध्यात्मबुधैर्दितीयकम् ॥१॥ टीकाः-इन्द्रियविषयान् प्रति वैराग्यं-रागाभावो विषयवैराग्यमेकं, तपश्चर्यासंयमसाधनादिजन्या लन्धीः प्रति वैराग्यं गुणधैराग्यं, पृथिव्यां द्विविधमिदं वैराग्यं प्रवर्त्तमानमस्ति, प्रथमं वैराग्यमपरं, द्वतीयं वैराग्यं परं, अध्यात्मशास्त्रविशारदैः प्रकीर्तितमिति ।।१।। उपलम्भविषयानुभ्रविकरूपेण विषया विकारिणोऽपि विरक्तान् न विकुर्वते 'विषया उपलम्भगोचरा, अपि चानुश्रविका विकारिणः । न भवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जताम् ॥२॥ टीका:-इन्द्रियजन्यप्रत्यक्षेणाऽनुभूयमानाः शब्दादिविषयाश्चानुश्रविकाः-शास्त्रवाक्यतो विज्ञायमाना देवलोकगता दिव्या विषयास्तथा चैवंभूता विषया आत्मानं प्रति विकारकरणशीला अपि, वैराग्यरसवासितमनसो न विकारिणो भवन्ति, सुधाकुण्डे स्नानं कुर्वतां यथा विषस्य धारा न विकरोति तथाऽत्रापि ज्ञेयम् ।।२।। ॥१२३॥ Jain Education Intemat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy