SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥१२॥ (११) समताऽमृतमज्जनम् शान्तरसरूपसमतानामकेऽमृते स्नानम् , (१२) सदा चिदानन्दमयात् स्वभावानैव चलनम् सर्वकालाऽवच्छेदेन चिन्मयादानन्दमयात्स्वभावादात्माभिनविशेषोपयोगाद , आत्मस्वरूपविषयकज्ञानात् आत्मनिष्ठस्वैश्चर्यपूर्णतादर्शनजन्यादखण्डानन्दान चलनं-च्युतिः, इयं लक्षणावलीद्वादशलक्षणानि, तृतीयस्य-ज्ञानगर्भवैराग्यस्य, स्मृता-दर्शिता परमर्षिभिः ॥४०॥४१॥४२॥४३॥ -वैराग्यभेदस्योपसंहारःज्ञानगर्भमिहादेयं, दयोस्तु स्वोपमर्दतः । उपयोगः कदाचित् स्या-निजाऽध्यात्मप्रसादतः ॥४॥ टीका:-त्रिषु वैराग्यभेदेषु निश्चयतो ज्ञानगर्भवैराग्यमेवोपादेयं, परन्तु दुःखतो वा मोहतः संसारत्यागी भवेत , सस्य इयोस्तु-दुःखगर्भमोहगर्मवैराग्ययोः, स्वोपमदतः दुःखस्य वा मोहस्य दूरीकरणतः, ज्ञानगर्भवैराग्यं भवेत्तदा 'कदाचित् निजाध्यात्मप्रसादतउपयोगः स्यात्-दुःखादिगर्भवैराग्यस्याऽपि कदाचित् कस्यचिद् विरक्तस्य ज्ञानगर्भितवैराग्यजनने उपयोगः स्यात् परन्तु तदर्थ निजाध्यात्मभावमहाराजस्य प्रसादःपरमावश्यकः ॥४४॥ ___ इत्याचार्यश्रीमद्विजयलन्धिसूरीश्वरपट्टघराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रकरमरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां वैराग्यभेदाख्यः षष्ठोऽधिकारः समायः॥१८॥ Jain Education Inter ॥१२२॥ 121 ____www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy