________________
अध्यात्मसार:
॥११॥
निश्चयनयः स्वाऽभिप्राय पूर्णवलेन स्थापयति तदा स एव सत्यो भासते परन्तु यदा परनयेन-व्यवहारनयेन खण्ड्यते तदा प्राक्तनो नयोऽसत्यो भासते, तस्मिन् काले नयेषु स्वार्थसत्येषु परचालने-परद्वारा खण्डने सति मोघेषु-निष्फलेषु यदि माध्यस्थ्यं-अपेक्षाद्वारा समन्वं नाऽयातं तदा न ज्ञानगर्भतेति ॥३७॥
-आज्ञया चा युक्तितः पदार्थानां योजकत्वं न, म तदा ज्ञानगर्भता'श्राज्ञयाऽऽगमिकार्थानां, यौक्तिकानां च युस्तितः ।
न स्थाने योजकत्वं चे-न तदा ज्ञानगर्भता ॥३८॥ टीकाः-हेतुबादागमवादाभ्यां द्विवियो वाद उच्यते, (१) प्रथमो हेतुवादस्तु पदार्थानां सिद्धिकृते प्रत्यक्षादिप्रमाणे हेतुभिश्च जायमानो वादः ‘युक्तिवादः' (२) द्वितीय आगमवादः यत्राऽगमभिन्नप्रमाणानां हेतूनां युक्तीनां च नाऽवकाशः, परन्तु मात्राऽऽतोक्तिरूपागमवचनप्रामाण्येन पदार्थसिद्धिर्येन वादेन जायते स 'आगमवादः', केचित्पदार्था युक्त्या साधयितु शक्यन्ते तत्र हेतुवाद एव योज्यः, केचित् पदार्था अतीन्द्रियविशेषा--अतिसूक्ष्मविशेषा आगमवचनमात्रसाध्यास्तत्राज्ञा (आगम) वादो योजनीयः, यथा जीवपदार्थे चैतन्यसिद्धिहेतुवादेन कार्या, निगोदशरीरे त्वनन्तजीवसिद्धिरागमवादेन कर्त्तव्या, अर्थात् पदार्थोऽथवा पदार्थाशो येन वादेन साधयितु शक्यः, स पदार्थोऽथवा पदार्थाशस्तेन वादेन साधनीयः योग्यस्थाने योग्यवादेन योजयेत् यौक्तिकपदार्थे युक्तिवादः, आगमिकपदार्थे, आगमवादो योज्यः परन्तु
॥११९॥
in Education tema
For Private & Personal Use Only
www.jainelibrary.org