SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥११७॥ Jain Education Internationa चेदुच्यते, तत्र तत्र विवक्षितवस्तुनि घटादिरूपेण तत्र तत्र काले नियतोल्लेखप्रधानो व्यवहारो भवति पूर्वोक्ताऽऽसत्यादिकारणेन जायते निश्चयनयेन निश्चितं यत् प्रत्येकवस्त्वनन्तपर्याय मयताया दर्शनमेव सम्यग्दर्शनम्, तदेव सम्यग् ज्ञानमस्ति तादृशसम्यग्दर्शनादि, सप्तमगुणस्थाने सम्भवति तस्मात् सम्यग् दर्शनं सम्यक् चारित्रमस्ति, त्रयमेकस्वरूपं स्थितम् ||३३|| - एकान्तेन जैनाभासस्य विरक्तस्याऽपि कुग्रहः पापकृत्'तदेकान्तेन यः कश्चिद विरक्तस्याऽपि कुग्रहः 1 शास्त्रार्थबाधनात् सोऽयं, जैनाभासस्य पापकृत् ॥ ३४ ॥ टीका:- पूर्वोक्तं यत् षड्जीवनिकायस्यैकान्तेन श्रद्धानमपि शुद्धसम्यक्त्वं न कथ्यते, इत्येवं विषयमुपसंहत्याऽस्मिन, श्लोके ग्रन्थकारो ज्ञापयति यद् विरक्तस्याप्येकान्तेन यः कश्चित् कुग्रहः स्यात्, सोऽयं शास्त्रार्थ बाघ नाज्जैनाभासस्य पापकृत् = पापकर्मबन्धकृद् भवति ||३४|| - ज्ञानगर्भ वैराग्यविरोधी कुग्रहः 'उत्सर्गे वाsपवादे वा व्यवहारेऽथ निश्चये । ज्ञाने कर्मणि वाऽयं चेन्न तदा ज्ञानगर्भता ॥३५॥ For Private & Personal Use Only ॥११७॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy