________________
अध्यात्म
सारः
॥११६॥
टीका:-यद्यपि केवलज्ञानं विना, 'वस्तुमात्रेऽनन्तपर्यायाः सन्ति' इति प्रत्यक्षज्ञानं कस्यचिदपि न सम्भवति अनन्तपर्यायमयवस्तुनश्च क्वाऽपि, एकांशद्वारं ग्रहणं एकांशविषयक-ज्ञानं भवेत्तदा तदतिप्रसङ्गदोषाऽन्वितं स्यात्तथापि सम्यग्दृष्टेरात्मनोऽनेकान्तमूलके जिनेन्द्रागमे सुनिश्चला श्रद्धा वर्त्तत एव, तयैव श्रद्धया वस्तुमात्रनिष्ठाननन्तपर्यायान् भावतो मन्यते जानाति च, ये पदार्था येन रूपेण केवलिना प्रत्यक्षदृष्टास्तान पदार्थास्तेन रूपेण सम्यग् दृष्टिर्न साक्षात् पश्यति तथाऽपि केवलिनां वचनेषु सम्पूर्णश्रद्धाद्वारा सदा-सर्वकाले सम्पूर्णार्थविवेचनम् वस्तुमात्रस्याऽनन्तपर्यायमयताया विवेचनमवश्यं कर्तु शक्यते ॥३१॥३२।।
____ आगमार्थोपनयनद्वारा प्राज्ञस्य ज्ञानं सर्वव्यापीति 'भागमार्थोप नयनाद्, ज्ञानं प्राज्ञस्य सर्वगम् ।
कार्यादेर्व्यवहारस्तु, नियतोल्लेखशेखरः ॥३३॥ टीका:- आगमाऽर्थान् सम्पूर्णश्रद्धया सह पुरस्कृर्वतः सम्यग्दृष्टेरात्मनो ज्ञानं सर्वव्यापीति कथ्यते, यथा केवलिनो ज्ञानं सर्वपदार्थविषयकमस्ति सम्यग्दृष्टे निमप्यागमार्थश्रद्धाद्वारा सर्वगतमेवास्ति, (केवली साक्षाददृष्टवा-यथाऽनन्तकायेऽनन्तान जीवान कथयति केवलिवचनश्रद्धयैवैनं विषयं सम्यगदृष्टिः कथयति) ननु यद्येवं वस्तुन्यनन्तपर्यायवति ज्ञाते सति सम्मुखस्थे वस्तुनि घट इति व्यवहारः कथमिति
| ||११६॥
in Education Intema
Dowww.jainelibrary.org