________________
अध्यात्मसार:
॥११३॥
स्वरूपपर्यायत्वेन प्रतिपद्यध्वे, भूतले वा घटे तादात्म्यवन्तौ सन्तावपि तेन सह सम्बन्धात्मको पर्यायौ भवतस्तदा तौ युष्माकं मतेन कया रीत्या भवतः १ अर्थाद् युष्माभिरेष विषयः सम्मतश्चेत्तदा ययो ईयोरतादात्म्यमस्ति तयोर्द्वयोरपि व्यवहारे उपयोगे सति सम्बन्धो भवितुमर्हति, एवं सति पटत्वादिपर्यायः सह घटस्याऽतादात्म्यमस्ति तथापि घटबोधस्य व्यवहारे पटत्वादय उपयोगिनः सन्ति तस्माद घटेन सह पटत्वादेः सम्बन्धः किं सम्भवेदर्थादेतेऽपेक्षया पटत्वादयः बटस्य स्वपर्यायाः किं न सम्भवेयुः ॥२८॥ -स्वाऽन्यपर्यायसम्बन्धेन प्रत्येक वस्तु सर्वपर्यायमयमस्ति तत्र सूत्रस्य प्रामाण्यं प्रदर्श्यते
'स्वान्यपर्यायसंश्लेषात् , सूत्रेऽप्येवं निदर्शितम् ।। __ सर्वमेकं विदन् वेद, सर्वे जानंस्तथैककम् ॥२॥
टीकाः-अनया रीत्यैकस्मिन् द्रव्ये स्वपरपर्यायसम्बन्धेन, श्रीमदाचाराङ्गसूत्रेऽपि कथितमस्ति यत् , 'य एकं जानाति स वस्तुतः सर्व जानाति, यः सर्व जानाति स एकं जानाति' इति, किञ्चनाऽप्येकं वस्तु स्वपरपर्यायानन्नात्मा लोकालोकगतं सर्व वस्तु सर्वस्वपरपर्यायै युक्तं जानाति यतः सर्ववस्तूनां सर्वपर्यायविषयकज्ञानं विनैकं वस्तु ज्ञातुमशक्यम् , प्रत्येकं वस्तु सर्वस्वपरपर्यायमयमस्ति, अथ सर्वपर्यायविषयकज्ञानं विना सर्वपर्यायमय मेकं वस्तु कया रीत्या ज्ञातु शक्यते ? सर्वपर्यायान् ज्ञातु सर्ववस्तु ज्ञेयमेव, यद्येवं स्यात्त
११३॥
Jain Education Internation
For Private & Personal use only
INJww.jainelibrary.org