SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥११२॥ -ययोयोरतादात्म्यं तयोईयोरपि व्यवहारोपयोगिनोः सतोः सम्बंध:'नो चेदभावसम्बन्धाऽन्वेषणे का गति भवेत् । थाधारप्रतियोगित्वे द्विष्ठे न हि पृथग द्वयोः ॥२८॥ टीका-ययो द्वयो वस्तुनोरतादात्म्यमस्ति, तयोद्वयो वस्तुनोरपि सम्बन्धो भवतीत्येतं विषयं यूयं न स्वीकुरुथ तदा युष्माकमापत्तिरागमिष्यति, तथाहि घटाभाववद् भृतलमित्यत्र यूयं घटाभावस्य भृतलेन सह सम्बन्धं मन्यध्वे तदा वयं पृच्छामः, भूतलेन सह घटाभावस्य सम्बन्धान्वेषणे का गति भवेत् , यदि युष्माभिः कथ्यते च तावद् घटाभावस्याधारो भृतलमस्ति, प्रतियोगी च घटोऽस्ति तस्माद् घटाभाव आधारतासम्बन्धेन भूतलेन सह सम्बध्नाति, प्रतियोगितासम्बन्धेन घटेन सह सम्बध्नाति ययमत्रापि जानीत यदेषाऽऽधारता, प्रतियोगिता च क्रमेणानुयोगिनि च प्रतियोगिनि वर्तेते, अर्थाद् घटाभावस्याधारता, आधाररूपे भूतल एव तिष्ठति, परन्तु, आधारतानिरूपकघटाभावे न तिष्ठति, एवं रीत्या घटाभावस्य (घटाभावनिरूपित) प्रतियोगिता प्रतियोगिनि घट एवं तिष्ठति, परन्तु प्रतियोगितानिरूपकघटाभावे न तिष्ठति, इदमत्र हृदयम्=अनुयोगिता वा प्रतियोगिता न द्विष्टा, परन्तु आधारे वा प्रतियोगिन्येव तिष्ठति, तस्मादाधारताप्रतियोगिते, आधारता निरूपकघटाभावप्रतियोगितानिरूपकघटाभावाभ्यां भिन्ने एव स्तः, घटामावस्याधारताप्रतियोगिते न घटाभावे तिष्ठतः, घटाभावाभिन्ने स्तः, तथापि ययमतादात्म्यवती, आधारता प्रतियोगितां च घटाभावसम्बन्ध ११२॥ Jain Education Intern www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy