SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥११॥ रूपेणोपयोगिनो भवन्ति, तथाहि-यदा 'यटमानये' ति व्यवहारो भवति सदा 'घटत्ववान् घट एवाऽऽ. नीयते परन्तु पटादयो नानीयन्ते, एतस्माद् व्यवहारात सिद्धयति यत् पटादिषु घटस्य स्वपर्यायाभावः पतितः, तस्मात्ते पटादयस्तदा नानीयन्ते, यत्र घटस्य स्वपर्यायोऽस्ति, तदेव घटद्रव्यमेवाऽऽनीयतेऽर्थादेबंरीत्या घटस्य परपर्याया अपि घटानयनादिव्यवहारे उपयुज्यन्ते तस्मात्तेषां पटादिपरपर्यायाण घटेन सह सम्बन्धो भवति तस्मात्ते पटादिपर्याचा घटस्यैव स्वपर्याया उच्यन्ते ॥२६॥ -भिन्ना अपि पर्याया उपयोगद्वारा स्वकीया एव मन्यन्ते'पर्यायाः स्युमुने नि-दृष्टिचारित्रगोत्रराः । यथा भिन्ना अपि तथो-पयोगाद् वस्तुनो ह्यमी ॥२७॥ टीका:-यथा ज्ञानदर्शनचारित्रविषयाः सर्वे द्रव्यपर्याया मुने भिन्नाः सन्तोऽपि मुनेरेव कथ्यन्ते कस्मादिति चेदुच्यते यतम्ते द्रव्यपर्यायाः श्रद्धेयत्वेन केचिज्ज्ञेयत्वेन केचन च त्यागद्वाग, केऽपि ग्रहणद्वारा, चारित्रक्रियायामुपयोगित्वेन मोक्षनामकलक्ष्यसिद्धावुपयुज्यन्तेऽर्थात् स्वकार्यसिद्धायुपयोगिभवनद्वारा सर्वे । ज्ञानादिपर्याया मुनेर्भिन्नाः सन्तोऽपि मुनेरेव पर्याया उच्यन्ते तथा घटादिवस्तुनः पटत्वादिपर्याया घटादे मिनाः सन्तोऽपि घटादेः स्वपर्यायाणा त्यागविशिष्टाः परपर्याया अपि व्यवहारे उपयोगिभवनद्वारा घटादेः स्वपर्यायाः कथ्यन्ते ॥२७॥ Jain Education Internationa का For Private & Personal use only O w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy