SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥ ११०॥ Jain Education Internati रूपविशेषणवन्तः पटत्वादिपर्याया घटस्यैव स्वपर्यायाः कथ्यन्ते, पटत्वादयो नास्तित्वसम्बन्धेन घट एव तिष्ठन्त्यत एव घटस्य पर्याया मन्तव्या एव || २५ || - अतादात्म्येऽपि परपर्यायाणां स्वत्वं धनस्येव व्यज्यते - 'श्रतादात्म्येऽपि सम्बन्ध-व्यवहारोपयोगतः तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्मया धिया 1 ॥२६॥ टीका:- ननु घटत्वादिपर्यायाणान्तु घटे तादात्म्यमस्ति तस्माद् घटत्वादिपर्याया घटपर्यायाः कथ्यन्ते तच्चारु, परन्तु येषां पटत्वादिपर्यायाणां घटे किमपि तादात्म्यं नास्ति तेषां पटत्वादीनां घटसत्कस्वपर्यायत्वकथनं कथं चार्विति चेटुच्यते यथा द्वयोरभिन्न ( तादात्म्यवद्) वस्तुनोः सम्बन्धो भवति तथा द्वयो भिन्न (अतादात्म्यवद्) वस्तुनोरपि सम्बन्धो भवत्येव यथाहि = एकः पुरुषोऽस्ति तस्य च गृहे पुष्कलं धनमस्ति पुरुषघनयोः सर्वथा भिन्नयोः सतोः 'पुरुषस्य धन' मिति किं न व्यवह्रियते १ तथा घटपटादिपर्याययोः सर्वथा भिन्नयोः सतोः 'पटत्वादिपर्याया घटस्येति कथं न कथनीयाः स्युः ९ एष विषयः सूक्ष्मया बुद्धया व्यज्यते प्रकटीक्रियते एकं वस्तु द्वितीयवस्तुतो भिन्नं सदपि तस्योपयोगि स्यात्तदा तवस्तु द्वितीयवस्तुनो भवति यथा देवदत्तधनयो:- सर्वथा भिन्नयोः सतो र्यद्धनं देवदत्तस्योपयोग्यस्ति तद्धनं देवदत्तस्य कथ्यते एवं रीत्या घटस्य स्वपर्यायाणां त्यागविशिष्टपटत्वादयः परपर्यायत्वेन For Private & Personal Use Only ॥११०॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy