________________
अध्यात्म
सारः
॥१०९॥
- पटत्वादिपरपर्याया अपि घटस्य स्वपर्यायीभवने सिद्धिः'ये नाम परपर्यायाः, स्वाऽस्तित्वाऽयोगतो मताः ।
स्वकीया अप्यमी त्याग-स्वपर्यायविशेषणात् ॥२५॥ टीका:-ननु घटस्य ये घटत्वादिपर्यायाः सन्ति, ते तु निश्चयतो घटस्य स्वपर्यायाः कथनीयास्तत्तु स्पष्टं ज्ञायते परन्तु ये पटत्वादिपरपर्याया घटस्य न सन्ति ते तु घटस्य पर्यायाः कथं कथ्यन्ते ? पटस्वादयो घटस्य परपर्याया इति कथ्यन्ते च ते घटस्य पर्यायाः कथं ? यदि घटस्य पर्यायाः स्युस्ते घटस्य परपर्यायाः कथं? इति चेदुच्यते घटस्य ये घटत्वादिपर्यायाः सन्ति, तेषां घटेऽस्तित्वमस्ति, ततः कारणात स्वाऽस्तित्वसम्बन्धेन घटत्वादिपर्याया घटस्य स्वपर्यायाः कथिताः, घटादन्यत्र सर्वेषु पटादिद्रव्येषु ये पटत्वादयोऽनन्तपर्यायाः सन्ति ते यद्यपि घटेऽस्तित्वसम्बन्धेन तु न सन्ति तथाऽपि घटस्य ये परपर्यायास्ते, घटस्य स्वपर्यायत्यागरूपविशेषणवन्तो भूत्वा घटस्यैव स्वपर्याया भवन्ति-इदमत्र हृदयमस्ति-घटत्वादयः पटत्वादयश्च सर्वे घटस्य स्वपर्यायाः सन्ति परन्तु घटस्वादिस्वपर्यायाः स्वपर्यायस्वीकारविशिष्टास्तदा पटत्वादिपर्यायाः स्वपर्यायत्यागविशिष्टाः सन्ति, अर्थात् स्वपर्यायस्वीकाररूपविशेषणवन्तो घटत्वादिपर्याया घटस्य स्वपर्यायाः कथ्यन्ते, स्व (घटत्व) पर्यायत्याग
॥१०९॥
Jain Education Intematic
For Private & Personal use only
www.jainelibrary.org