________________
अध्यात्म सार:
||१०८॥
__ -स्यात् सर्वमयमिति विषयस्य प्रतिपादनम्'स्यात् सर्वमयमित्येवं, युक्तं स्वपरपर्ययः ।
अनुवृत्तिकृतं स्वत्वं, परत्वं व्यतिरेकजम् ॥२४॥ टीकाः-एवं रीत्यैकैक द्रव्यं सर्वैः स्वपर्यायः सर्वेश्च परपर्याययुक्तत्वात् सर्वपर्यायमयं भवति, शङ्का पर्यायनिष्ठं किं स्वत्वं परत्वं च किं ? अर्थाद् घटस्याऽमुकाः पर्यायाः स्वत्वेनामुकाश्च परत्वेन कथ्यन्ते तत् किं ? समाधानं येषां पर्यायाणां घटेऽनुवृत्तिः (स्ववृत्तित्व) ते पर्याया घटस्य स्वपर्यायाः कथ्यन्ते, किश्च घटे वृत्तित्वाभावजन्या (व्यतिरेकजाः) घटस्य ये पर्याया भवन्ति ते पर्याया घटस्य परपर्यायाः कथ्यन्ते यथा घटे घटत्वपर्यायोऽस्ति तस्मिन्नेव घटे पटत्वपर्यायोऽप्यस्ति विशेषस्त्वेतावानेव यद्घटत्वपर्यायो घटस्य स्वपर्यायोऽस्ति तदा पटत्वपर्यायो घटस्य परपर्यायोऽस्ति घटस्येमो द्वौ घटस्यैव स्वपर्यायपरपर्यायौ कथ्येते, अर्थाद् येषां पर्यायाणां घटेऽस्तित्वमस्ति ते सर्वे पर्याया अस्तित्वसम्बन्धेन घटस्य स्वपर्याया उच्यन्ते, येषां च पर्यायाणां घटे नास्तित्वमस्ति ते सर्वे पर्याया नास्तित्वसम्बन्धेन घटस्य परपर्यायास्तथाच येन केनचित् सम्बन्धेन भवन्तो घटस्य स्वपर्यायाः परपर्यायाश्च सर्वे घटस्यैव पर्याया जाता अत एव घटद्रव्यं सर्वपर्याय नयं' जातं, एवं रीत्या प्रत्येकद्रव्यमनुवृत्त्या (सद् भावतः) अस्तित्वसम्बन्धेन, व्यतिरेकतश्च (असत्त्वेन) नास्तित्वसम्बन्धेन सर्वपर्यायमयं भवतीति ॥२४॥
||१०८॥
Jan Education interes
For Private
Personel