________________
अध्यात्मसार:
॥१०७॥
दृष्टिरेव कथ्येत, कुत इति चेद् यतः पदार्थोऽनन्तपर्यायमयोऽस्ति (१) अतः 'जीवे जीवत्वस्ति तथाऽजीवत्वमप्यस्ति (२) षड्जीवनिकाये षट्त्वमस्ति तथैकत्वमप्यस्ति (३) निकायत्वमस्ति तथाऽनिकायत्वमप्यस्ति, एवं रीत्या पदार्थस्य यद् यथार्थस्वरूपं यत् ‘पदार्थः सर्वपर्यायवानस्ति तस्य निश्चयामावादर्थात् सम्पूर्णपर्ययाऽलाभाद् यथार्थत्वविनिश्चयामावादेतादृशमेकान्ततावत् षड्जीवनिकायश्रद्धानं शुद्धसम्यक्त्वरूपं न भवति ॥२२॥
-जगतः किञ्चनाऽप्येकमेव द्रव्यं सर्वपर्यायमयमस्तीति साधना'यावन्तः पर्यया वाचा, यावन्तश्वार्थपर्ययाः ।
साम्प्रताऽनागतातीतास्तावद् द्रव्यं किलैककम् ॥२३॥ टीकाः-शब्दसमभिरूढेवभूतनया अथवा शब्दादिनयत्रयेण वाच्या वस्त्वंशा वस्तुनो 'वचनपर्यायाः' सङ्ग्रहादिनया अथवा तद्वाच्या वस्त्वंशा वस्तुनो 'अर्थपर्यायाः' उच्यन्ते, प्रत्येकवस्तुनोऽनन्तानन्ता वचनपर्यायाः सन्ति, अर्थपर्यायाश्चाऽपि सन्ति, यतोऽतीतादिकालत्रयवर्तिनः सर्वपर्यायाः प्रत्येकद्रव्यस्य भवन्ति, तथाहि घटद्रव्यस्य कालत्रयवर्तिनः पर्यायाः, यथा वर्तमानघटद्रन्यस्य तथा तस्यैव घटद्रव्यस्य पटादिसर्वद्रव्यागां सर्वं पर्याया अपि सन्त्येव कमिति चेत् ? पटादिपर्याया अपि घटादिद्रव्ये, नास्तित्वरूपेणाऽन्योऽन्यमनुगता भवन्ति, एवमेकमेव द्रव्यं सर्वद्रव्याणां सर्वकालीनसर्वपर्यायमयं युगपत्क्रमेणाऽपि च भवति ॥२३॥
॥१०७॥
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org