________________
अध्यात्म
सार:
॥१०६॥
रमणतैव सारं-फलं यस्य तदन्तः प्रवृत्तिसारवत्सम्यक्प्रज्ञानमेव सम्यक्त्वं ज्ञेयं, अन्तः प्रवृत्तिस्तु सप्तमगुणस्थान एव सम्भवति तस्माद्व्यावहारिकचारित्रेण सह निश्चयसम्यक्त्वं न सम्भवति, अर्थादेकता प्राप्तानि निश्चयशुद्धानि सम्यक्त्वचारित्रज्ञानानि सप्तमगुणस्थानत एव सम्भवन्ति ततोऽधस्तेषामसम्भवः ॥२१॥
-निश्चयनयदृष्टयैकान्तेन षटकायश्रद्धानेऽपि न शुद्धता'एकान्तेन हि षट्काय-श्रद्धानेऽपि न शुद्धता ।
सम्पूणपर्ययालाभाद्, यन याथात्म्यनिश्चयः ॥२२॥ टीकाः-एकान्तेन षड् जीवनिकायस्य श्रद्धानकरणे निश्चयनयस्य शुद्धसम्यक्त्वं न सम्भवति, (१) 'पडेव जीयाः सन्ति कायश्चास्ति' इत्येतदेकान्तश्रद्धानमस्ति, यतो जीवानां च तेषां कायानां समूहमपेक्ष्य तदेकैकमेवास्ति, षड् न सन्ति (२) अथ यदि 'षड्जीवनिकायोऽस्ति' इत्येतस्मिश्रद्धाने षड् जीवनिकाये जीवत्वं मन्येत तदप्यसद् यतो जीवपुद्गलाः परस्परं क्षीरनीरवदेकत्वमापन्नाः सन्ति जीवे जीवत्वमस्ति तथा पुद्गलत्तमप्यस्ति, (३) षड्जीवनिकायस्य श्रद्धाने 'षण्णां जीवानां समुदाये निकायत्वं यदा मन्येत तदप्यसद् यतः समुदाये निकायत्वे सति प्रत्येकजीवस्य पृथकत्वेन प्रधानतया विवक्षा क्रियेत तदा तेपो समूहो न भवेदात्तेषु तदपेशयाऽनिकायत्वप्यागच्छेदित्येवमेवकारं 'षड्जीवनिकाये' भिन्नभिन्नरीत्या संयोज्य यद्येकान्तो ग्राह्यस्तदैतदेकान्त श्रद्धानमेव शुद्धसम्यकृत्वं नास्ति, निश्चयनयत एष आत्मा मिथ्या
।।१०६॥
Jain Education Intemei
For Private & Personal use only
www.jainelibrary.org