________________
अध्यात्म
सारः
॥१०५॥
Jain Education Internatio
तस्य चारित्रस्याऽभिव्यक्तिः प्राकटयं सम्यक्त्वमेव, 'इत्येकत्वविनिश्चयः' इत्येवं सम्यक्त्वज्ञानचारित्राणां त्रयाणामेकत्वविनिश्चयो ज्ञेयः, इदमत्र हृदयं यत्र ज्ञानं तत्र तस्य कार्येण चारित्रेण भवितव्यमेव, चारित्रस्य चाभिव्यञ्जकं सम्यक्त्वमस्ति ततो यत्र चारित्रं तत्र सम्यक्त्वसत्वमेव, अभिव्यञ्जकोऽपि विनाऽभिव्यङ्गयं न सम्भवति, अतो यत्र सम्यक्त्वसत्ता तत्र चारित्रसत्चैवेत्येवं निश्चयनयदृष्टया पूर्वश्लोकदर्शितचारित्रसम्यक्त्वयोः समव्याप्तिः स्थिरत्वेन समर्थितेति ||२०||
- व्यावहारिक नैश्चयिक चारित्रयोर्भेदतो वर्णनम् - 'बहिर्निवृत्तिमात्रं स्या- चारित्रं व्यावहारिकम् 1 अन्तः प्रवृत्तिसारं तु सम्यक ज्ञानमेव
॥२१॥
टीका:- ननु चतुर्थगुणस्थाने सम्यक्त्वमस्ति तत्र किं चारित्रमस्ति ? सप्तमे च गुणस्थान एव सम्यक्त्व चारित्र समव्याप्तिरस्ति ततः षष्ठगुणस्थाने यच्चारित्रमस्ति तत्र किं सम्यक्त्वं नास्तीतीति चेन्न, स्थाने चरित्रमस्ति तत्तु बाह्यपदार्थनिवृत्तिमात्र स्वरूपं व्यवहारतएव चारित्रं कथ्यते, अत एव तच्चारित्रं व्यावहारिकमुच्यते, तत्र व्यावहारिकं सम्यक्त्वमपि भवत्येव, तथापि तत्र निश्चयनयदृष्टया सम्यक्त्वं सम्यक्प्रज्ञानं भवितुं नार्हति यतः सम्यक्त्वं सम्यक्प्रज्ञानं तु 'अन्तःप्रवृत्तिसारं ' आत्मनि
For Private & Personal Use Only
॥१०५॥
www.jainelibrary.org