________________
अध्यात्म
सारः
॥१०३॥
Jain Education Internati
-मीमांसा सुदृढप्रतिभावतो ज्ञानगर्भवैराग्यविवृद्धि:'मीमांसा मांसला यस्य, स्वपरागमगोचरा । बुद्धिः स्यात्तस्य वैराग्यं, ज्ञानगर्भमुदञ्चति ||१७||
टीका: - 'यस्य मीमांसा मांसला' - यस्यात्मनो विचारणया परिपुष्टा, 'स्वपरागमगोचरा' - स्वकीय परकीयशास्त्रविषयिणी, 'बुद्धि: स्यात्तस्य' प्रतिभा स्यात्तस्यात्मनः, 'ज्ञानगर्भ वैराग्यमुदञ्चति' – ज्ञानगमित वैराग्यमुन्नतिं गच्छतीति ॥१७॥
- स्वपरावगाहिबुद्धिरहितानां निश्चयसारमनुष्ठानस्य न प्राप्नोतिन स्वाऽन्यशास्त्रव्यापारे, प्राधान्यं यस्य कर्मणि । नाsसौ निश्चयसंशुद्धं सारं प्राप्नोति कर्मणः 118=11
टीका:- पूर्वोक्तं यज्ज्ञानगर्भितवैराग्यहेतोः स्वपरागमावगाहिनी प्रतिभाऽऽवश्यकी विद्यते, इत्येत द्विधानमनुलक्ष्य निश्चयनयदृष्टयाऽत्र श्लोके कथ्यते, यथाहि 'यस्य कर्मणि प्राधान्यं ' 'चारित्रवत आत्मनोऽनुष्ठान एव प्राधान्यं दृश्यते 'न स्वाऽन्यशास्त्रव्यापारे' - स्वपरागमावगाहनरूपे व्यापारे प्राधान्यं न दृश्यतेऽतोऽसौ - चारित्रवानात्मा 'निश्चयसंशुद्धं कर्मणः सारं न प्राप्नोति - निश्चयनयदृष्टयात्यन्तशुद्धं कर्मणोऽनुष्ठानस्य सारं फलं न प्राप्नोतीति ॥१८॥
For Private & Personal Use Only
॥ १०३ ॥
www.jainelibrary.org