________________
अध्यात्म
सार:
॥१०॥
'गुणाऽनुरागवैधुर्यम्'-गुणवमिष्ठगुणान् प्रति प्रीतिरहितत्वम् (१३) 'उपकारस्य विस्मृति-स्वात्मानं प्रत्युपकारकारिणामुपकारस्य महतोऽपि विस्मरणम् (१४) 'अनुषन्धाधचिन्ता'-माविन्या अनर्थपरम्परायाचिन्तायाः शून्यत्वम् (१५) 'प्रणिधानस्य विस्मृति-धर्मयोगे चित्तस्यैकाग्रतायाः स्मरणामावः, (१६) श्रद्धामृदुन्वम्' सामान्यनिमित्तमाप्य प्रतिज्ञादिखण्डनशीला शिथिलीभृता श्रद्धा, (१७) 'औद्धत्यम्'नम्रताया विरुद्धत्वम् (१८) 'अधैर्यम्'-विरुद्धनिमित्तसद्भावे धीरताया असद्भावः (१९) 'अविवेकिता' सारासारादिविवेचनपटुरूपविवेकदीपकविध्यापनम् , इत्येवं, द्वितीयस्य-मोहगर्मितवैराग्यस्य 'स्मृनेयं लक्षणावली'-एकोनविंशतिर्लक्षणानि कथितानीति ॥१२॥१३॥१४॥१५॥
-तृतीयस्य ज्ञानगभिंतवैराग्यस्य स्वरूपवर्णनम्
'ज्ञानगर्भ तु वैराग्य, सम्यक् तत्त्वपरिच्छिदः ।
स्यावादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः ॥१६॥ टीकाः--'सम्यक् तत्वपरिच्छिदः'=सर्वज्ञप्रणीतत्वेन सम्यक्तन्वपरिच्छेदकस्य, 'स्याद्वादिनः' स्यादवादपद्धतिपूर्णपरिचयवतः शिवोपायस्पर्शिनः'मोक्षोपायभूतरत्नत्रयीस्पर्शकारकस्य, 'तत्त्वदर्शिनः' सत्यसारदर्शनपरस्य, एतादृशविशेषणविशिष्टस्यात्मनो यद्वैराग्यं तज्ज्ञानगर्भ वैराग्यं निरुच्यते ॥१६॥
॥१०२॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org