SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१९॥ टीका:-'सिद्धान्तमुपजीव्यापि'='यदहं कथयामि तदेव जैनमतमस्तीति रीत्या जैनसिद्धान्तस्य नाम गहीत्वैव 'ये विरुद्धार्थभाषिणः =ये मोहगर्मिता जिनसिद्धान्तविरुद्धार्थप्रतिपादनपराः 'तेषामपि दुष्करंकुवंतामप्येतदेवेष्टं' =तेषां सिद्धान्तविरुद्धार्थभाषिणामपि, जमालिप्रभृतिवदाभिनिवेशिकमिध्यात्विना दुष्करतपश्चर्याब्रह्मचर्यादिकारकाणामपि मोहगर्मितवैराग्यमेव मतमेव नान्यद् वैराग्यमिति ॥९॥ आभिनिवेशिकमिथ्यात्विनां शुभोऽपि परिणामो न तात्त्विकः 'संसारमोचकादीना-मिवैतेषां न तात्त्विकः । शुभोऽपि परिणामो य-ज्जाता नाज्ञारुचिस्थितिः ॥१०॥ टीका:--'संसारमोचकादीनामिवैतेषां शुभोऽपि परिणामो न तात्विकः =यथा संसारमोचकमतानुसारिणां जीवानां जीवदयादिपरिणामः शुभोऽपि न तात्विक:--सत्यः, तथैतेषां--आभिनिवेशिकमिथ्यात्विना मोहगभिंत--वैराग्यवतां बाह्यदृष्टया शुभोऽपि परिणामो न वास्तविकः, यतस्तेषामन्तरात्मनि जिनाज्ञा प्रति रुचि:--श्रद्धा प्रीतिर्वा न स्थिरस्थितिका भवतीत्येतेषां तपआदिप्रवृत्तिरपि स्वकल्पनाकल्पितैव न जिनाऽऽज्ञारुचिपूर्विकैवेति 'संसारमोचकस्यैवं मतमस्ति यत् 'प्रत्येकजीवानां भवा नियता एवेति कथनानुसारत एव दुःखार्तानां शीघ्रमारणे तस्य जीवस्यैको भवः शीघ्रतया समाप्तो मवेत , चिरकालं च दुखभोगो न ॥१९॥ Jain Education Interation For Private & Personal use only wanenbrot
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy