________________
अध्यात्म
सारः
118011
Jain Education Internationa
ग्रन्थानामुपर्युपरिबोधेन दुःखगर्भविरागिणो गर्विष्ठा भवन्तिग्रन्थपलवबोधेन, गर्वोष्माणं च विभ्रति ।
तत्त्वान्तं नैव गच्छन्ति, प्रशमाऽमृतनिर्भरम् ||५||
गर्योष्माणं- गर्वस्योष्णतां
टीका:- 'ग्रन्थपल्लवबोधेन' = ग्रन्थानामुपर्यपरि-अन्तरङ्ग रहस्यरहितबोधेन विभ्रति धारयन्ति परन्तु एते दुःखगर्भितवेराग्याधीनाः, 'प्रशमाऽमृतनिर्भरं' = प्रशम एवामृतं तस्य निर्भरसमं ‘तत्वान्तं=ग्रन्थानां सारभूतमन्तं सिद्धान्तभृतरहस्यं नैव गच्छन्ति' = नैव प्राप्नुवन्ति ॥५॥
दुःखगर्भितवैराग्यवन्तो गृहस्थान्नातिशेरते 'वेषमात्रभृतोऽप्येते, गृहस्थान्नाऽतिशेरते न पूर्वोत्थायिनो चरमा - न्नापि पश्चान्निपातिनः ॥ ६ ॥
I
टीकाः–'वैषमात्रभृतोऽप्येते'–दुःखगर्भितवैराग्यास्त्वेते साधुवेपमात्रधारिणः साधुताशून्याः 'गृहस्थान्नाऽतिशेरते' = गृहस्थादधिकतां न भजन्ते, 'यस्मान्न पूर्वोत्थायिनः, गृहस्थत्वतो न पूर्वमुत्थितवन्त:गृहस्थभावतो न निर्गता इत्यर्थः, 'नाऽपि पश्चान्निपातिन: ' = गृहस्थधर्मतः पश्चात् साधुधर्मे न प्रविष्टा हृदयतः, परन्तु मस्तकमात्र मुण्डितं न मनो मुण्डितमिति रीतिमन्तस्ते || ६ ||
For Private & Personal Use Only
॥९७॥
www.jainelibrary.org