________________
अध्यात्मसार:
॥१४॥
‘श्रौदासीन्यफले ज्ञाने, परिपाकमुपेयुपि । . चतुर्थेपि गुणस्थाने, तद्वैराग्यं व्यवस्थितम् ॥३६॥ टीका:-औदासीन्यफले-स्वपरविवेकज्ञानजन्यमौदासीन्यं समता वा माध्यस्थ्यं, फलं यस्य तस्मिन्, परिपाकमुपेयुषि-परिपक्वा सम्प्राप्ते ज्ञाने सति चतुर्थेऽपि गुणस्थाने पूर्वोक्तसम्यग दृष्टिमतामात्मना विशिष्टयोगदृष्टिसम्पन्नानां विषयजन्यसुखादिषु तद्विशिष्टं वैराग्यं व्यवस्थितम् , अर्थादेतादृशोदासीन्यप्राप्त्यनन्तरमपि ते सम्यग्दृष्टिमहात्मानो विषयेषु यो प्रवृत्ति कुर्वन्ति तत्र निकाचितभोग्यकर्मैव हेतु ज्ञेयः, विषयसुखप्रवृत्तावपि चतुर्थगुणस्थानेऽपि वैराग्यमप्रतिहतमेव ॥३६॥
इत्याचार्यश्रीमदविजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद् विजयभुवनतिलकसूरीश्वरपट्टधरभद्रङ्करमरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां वैराग्यसम्भवाख्यः पञ्चमोऽधिकारः समाप्तः ! श्लो. सं. १३८ ।
अथ वैराग्यभेदनामकःषष्ठोऽधिकारः प्रक्रम्यते
-वैराग्यस्य भेषत्रयस्य वर्णनम्तदवैराग्यं स्मृतं दुःख-मोहज्ञानाऽन्वयात् त्रिधा। तत्राद्य विषयाऽप्राप्तेः, संसारोगलक्षणम् ॥१॥
॥१४॥
Jain Education Internatio
Personal use only
Aww.jainelibrary.org