SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ।।९२॥ ज्ञानिनां लोकवर्तिनां योगिनां विषयगतप्रवृत्तयो नो वाधायै'दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधाये, ज्ञानिनो लोकवर्तिनः ॥३३॥ टीकाः-संसारस्था अप्याक्षेपकज्ञानस्वामिनः कान्तादृप्टेरवस्थास्थाविरतसम्यग्दृष्टियोगिनो विषयभोगादिविषयकप्रवृत्तयः सर्वा अपि दारुयन्त्रस्थपाञ्चालीनृत्यतुल्या भवन्ति यथा काष्ठपाञ्चाल्यो नृत्यन्ति क्रीडन्ति तिष्ठन्ति च सर्वत्र क्रियासु हृदये न हप्शोको भवतो यतः सूत्रधारेण प्रेरिताः काष्ठपाञ्चाल्यः सर्वक्रियां कुर्वते, तथा विशिष्टज्ञानदृष्टिसम्पन्ना योगिनस्तथाविधा भवन्ति, भोगस्य सर्वप्रवृत्तिषु योगिनां केऽपि रागादिभावा न प्रायःस्पृशन्ति, परन्तु निकाचितभोगावलि भोग्य)कर्मरूपसूत्रधारेण प्रेरिता योगिनो भोग भोगिनो भवन्ति अर्थाद्विषयेषु प्रवृत्ती सत्या विरक्तौ च सत्यामेतेषां योगिनां भोगभोगप्रवृत्तिरपि कदाचिन्न बाधाय प्रत्युत कर्मनाशायैव भवति ॥३३॥ इयं च 'योगमायेति कथ्यते परैः-- 'इयं च योगमायेति प्रकटं गीयते परैः। लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् ॥३॥ ॥१२॥ Jain Education Interna For Private & Personal use only KI www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy