SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥९ ॥ टीका:-'सदा स्वाऽन्यविभागवि'दिति-निरन्तरं, किं स्वं ? किं स्वतोऽन्यत्तस्य विभागं-भावनादिद्वारा भेदं वेत्तीत्यर्थः, अर्थात् परं परत्वेन स्वं च स्वत्वेन विभजन् विरक्त आत्मा, प्रतिबोधयतीन्द्रियाणि 'भो इन्द्रियवर्ग ! विषयरूपे परवस्तुनि कथं त्वं रज्यसि तेन सह रागसम्बधेनाऽलमेर सम्बोध्येन्द्रियाणां भोगविषयिणी याचनां शमयतीत्येतद् वञ्चनं करणैः सह विरक्ताऽऽत्मनाम् , प्रकारान्तरेण वेन्द्रियाणामाहा. रादिरूपादिविषयकलोभस्योपस्थितौ वीतरागदेवजिनवचनादिसद्भावेषु योजनरूपमृ/करणं कर्त्तव्यमित्येवं विषयपात्रविनिमयेन करणानि वञ्चनीयानीति चातुर्यविशेष दर्शयति कथमिति चेत १ स स्वाऽन्य विभागविदस्ति--स्वपरभेदविज्ञानस्वामी वर्तते यतः ॥३१॥ अत्यदभुतविरागताया लक्षणम् 'प्रवृत्तेर्वा निवृत्तेर्वा न सङ्कल्पो न च श्रमः । विकारो हीयतेऽक्षाणामिति वैराग्यमद्भुतम् ॥३२॥ ____टीकाः-यत्र विषयेषु प्रवृत्ति विधातु सङ्कल्पो-विचारो न, विषयेभ्यः करणानि निवर्तयितु न श्रमःप्रयासः कत्त युज्यते, तथापि निसर्गतस्तद्विकारो हीयते-क्षीयत एव तद्वैराग्यमद्भतकोटिकं भवेदिति, अर्थाच्चारुवैराग्यसत्कराजपथे, इन्द्रियाणि विषयेभ्यो निवर्तयितु परिश्रमो विद्यते, वैराग्यस्य चैकपदीमार्गे विषयेषु प्रवृत्तो भवितु सङ्कल्पो विद्यते, द्वयमिदं यत्र न विद्यते तथापि यत्र वैराग्यं तदद्भुतं वैराग्यं कथ्यते ॥३२॥ Jain Education Internation! For Private & Personal Use Only SAlww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy