________________
अध्यात्म
सार:
11८८॥
संसारस्याश्रयमात्रेण संसारी न भवत्येव, कारणवशात् , परजनानप्याश्रयन् कोऽपि परजनो न स्यादेवेति ॥२५॥
उत्तमोत्तमानां सर्वत्र वैराग्यं न हन्यत एव 'अत एव महापुराय-विपाकोपहितश्रियाम् ।
गर्भादारभ्य वैराग्यं नोत्तमानां विहन्यते ॥२६॥ टीका:-'अत एव'-विशिष्टज्ञानी सम्यगहगात्मा, विषयान सेवमानोऽप्य सेवमानो वैराग्यवान भवत्यत एव 'महापुण्यविपाकोपहितश्रिया' =पुण्यानुबन्धिपुण्यशिरोमणिभूततीर्थङ्करनामकर्मविपाकत उपनीतव ह्याभ्यन्तरपरमैश्वर्य-परमविभूतिसम्पन्नानामुत्तमानां, 'गर्भादारभ्य' गर्भावस्थात आरभ्य 'वैराभ्यं न विहन्यते भवेच्छानाशरूपं वैराग्यमप्रतिहतं विद्यत एव ।॥२६॥
__-वैराग्यलाभस्य राजमार्ग एष'विषयेभ्यः प्रशान्तानामश्रान्तं विमुखी-कृतैः ।
करगौश्वारुवैराग्य-मेष राजपथः किल ॥२७॥ टीका:-'अश्रान्तं सातत्येन विषयेभ्यो-शब्दादिविषयेभ्यो विमुखीकृतैः-समाहृतः, करणैरिन्द्रियर: प्रशान्ताना-उपशान्तचित्तविकाराणां, यद्वैराग्यं तच्चारुवैराग्यं भवतीत्येष किल वैराग्यप्राप्ते राजपथः--
11८८॥
Jain Education Intemat
Private Personal use only
A
ww.jainelibrary.org