SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: 11८७|| कर्मवन्धं प्रति नियमाऽनियमविवेकः 'विषयाणां ततो बन्ध-जनने नियमोऽस्ति न । अज्ञानिनां ततो बन्धो ज्ञानिनां तु न कहिचित् ॥२४॥ टीकाः-ततो-तस्मात्कारणाद् 'बन्धजनने'-कर्मबन्धं प्रति विषयाणां-विषयप्रवृत्तेर्न नियमोऽ र्थाद् विषयसम्बन्धमात्रेण कर्मबन्धोऽवश्यं भवतीति न नियमः-एकान्तः, परन्तु 'अज्ञानिनां-आत्मादितत्त्वज्ञानविवेकरहितानां विषयेषु प्रवृत्तावप्रवृत्ती का सत्यां कर्मबन्धोऽवश्यं भवति, ज्ञानिनां तु, आत्मादितत्त्वविशेषज्ञानिनां तु विषयेषु प्रवृत्तावप्रवृत्तौ वा सत्यां कर्मबन्धोऽवश्यं कदाचिन भवति, कर्मबन्धाऽनन्धविषये ज्ञानाऽज्ञानयोः कोऽप्यपूर्वः प्रभावः ॥२४॥ विषयसेवनाऽसेवनव्यतिक्रमे परमार्थः सेवतेऽसेवमानोऽपि सेवमानो न सेवते । कोऽपि परजनो न स्या-दाश्रयन परजनानपि ॥२५॥ टीका:-यो मिथ्यागवानी विषयानसेवमानोऽपि (कायेन) विषयान् सेवत एव (मनसा) यदा यः सम्यग् दृग् ज्ञानी विषयान् सेवमानोऽपि वस्तुतो न सेवते, विशिष्टदशापन्नः सम्यग् दृगात्मा ।।८७॥ JainEducation Intematale For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy