SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ -योगस्य स्वामिनां प्रवृत्तिरपि निवृत्तिरिव नो दुष्टाअध्यात्म 'बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् । सार: निवृत्तिरेव नो दुष्टा, योगाऽनुभवशालिनाम् ॥२२॥ टीका:-'योगानुभवशालिनाम् =योगस्य योऽनुभवस्तद्विशिष्टानां 'बहुदोषनिरोधार्थ'बहूनां दो||८३॥ पाणां निरोधमुद्दिश्य, 'अनिवृत्तिरपि-विषयेषु प्रवृत्तिरपि 'क्वचिद्' अपवादपदे पुरुषविशेषाणां वा 'निवृतिरिव-महादोषस्य निवृत्तिरिख नो दुष्टा'-नो दोषावहा, विशिष्टाऽन्तरात्मा विषयेषु प्रवृत्तोऽपि, अनासक्तिरूपवैराग्येण सुवासितस्तिष्ठत्येव ॥२२॥ - येन यस्य कदाचनाऽशुडिस्तेन तस्य कदाचिच्छुद्धिः'यस्मिन्निषेव्यमाणेऽपि यस्याऽशुद्धिः कदाचन । तेनैव तस्य शुद्धिः स्यात्, कदाचिदिति हि श्रुतिः॥२३॥ टीकाः-श्रुतावपि कथितमस्ति यद् यस्मिन्-भोगे निषेव्यमाणेऽपि यस्याऽऽत्मनः कदाचना8 ऽशुद्धिः-कर्मलेपो भवति, कदाचिद् विशिष्टापूर्वाऽवस्थाप्राप्त्यनन्तरं, तस्याऽऽत्मनः, तेन-भोगेन, शुद्धिः । निर्लेपता स्यादिति ॥२३॥ ॥८६॥ Jain Education Interna l For Private & Personal Use Only | www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy