SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: 11८४॥ भोगाऽभिनन्दिनो जीवस्य भवसागरतस्तरणं न भोगतत्त्वस्य तु पुनर्न भवोदधिलखनम् । मायोदकदृढावेशा-तेन यातीह कः पथा ॥१८|| टीका:-पुनः किञ्च, तुर्भेदे, 'भोगतत्त्वस्य' भोग एव तत्वं-सारं यस्य तस्य भोगतत्त्वस्य, 'मायोदकदृढावेशात्' मायाजलरूपभोगे सत्यजलमुखत्वेन दृढ़-परिपक्वभ्रमबुद्धिहेतुतः 'न भवोदधिलङ्घनम्' संसारसागरानिस्तारो न भवत्येव तस्मादिह जगति कः, सत्यजलरूपमोक्षसुखविषयकबुद्धिमान उत्तमः पुरुषः, तेन मायोदकसमभोगवता मार्गेण याति ? न कोऽपि सत्यज्ञानी कदाचिदपि यातीत्यर्थः ॥१८॥ भोगतत्त्व स्थितस्य जीवस्य मोक्षमार्गे गतिर्न 'स तत्रैव भयोदविग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥११॥ टीका:-मायाजलं सत्यत्वेन मन्यमानः स बहिरात्मा-भोगतत्त्वः सभयः सोद्वेगः सन् , तत्रैव= मायोदकामभोगतत्त्वे निःसंशयं तथा तिष्ठत्येव यथा भोगरूपकर्दमे मोहमूढः सन् मोक्षमार्गेऽपि पदमपि पुरतो गन्तु न शक्नोतीति ॥१६॥ ॥८४॥ Jain Education inte For Private Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy