SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: 1८३1 __ हारिभद्रवचःसाक्षिकगाथा 'मायाऽम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्यावातवर्जितः ॥१६॥ टीकाः-पष्ठीकान्तादृष्टो कथितमस्ति यन्मायाऽम्भः-मायारूपजलं मरुमरीचिकातत्वतः-मायाजलत्वेन जलाभासत्वेन, पश्यन्-सम्यग जाननात्मा, 'अनुद्विग्नः उद्वेगशन्यः सन् , यथा व्याघातवर्जितस्ततो द्रतं तन्मध्येन प्रयात्येव'ततस्तन्मायाजलमध्येन यथा बाधारहितः सन् स्वकमार्गेऽस्खलितगत्या प्रयाणं करोत्येव ॥१६॥ - तदेवाधिक स्पष्टयति-घटयति च - 'भोगान् स्वरूपतः पश्यं-स्तथा मायोदकोपमान । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१७॥ ___टीकाः-'तथा मायोदकोपमान्' पूर्वोक्तदृष्टान्तवत्तेन प्रकारेण, मायाजलसदृशान् ‘स्वरूपतः' प्रकतितः, भोगान् मायारूपेण 'पश्यन्' तत्वदृष्टितो जानानो भुञ्जानोऽपि हि निःसङ्गोऽनासक्तः सन्, परं पदं प्रयात्येव , भोगे रागरसाभावो दुर्लभः दशाविशेषे सुलभस्ततो यः कोऽपि निःसङ्गः स परं पदं प्रयात्येवेति नियमः 'सङ्गः सर्वाऽऽत्मना त्याज्यः' इति भगवद्गीतोक्त्याऽपि त्याग एव श्रेयानिति ॥१७॥ ॥८३॥ lain Education Interat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy