SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सार टीकाः-यस्य सम्यग्दृष्टेः प्रमातु भवेच्छा-विषयसुखविषयिणी लालसा विच्छिन्ना=विच्छेदमापना, अध्यात्म-6 तस्य भवेच्छाविच्छेदमापन्नस्य विशिष्टसम्यक्त्वसम्पन्नस्य, विरक्तस्य-वैराग्यवतो, विषयेषु प्रवृत्ति निकाचि तकर्मोदयप्रभावतो भवति, तत एव कथ्यते, विरक्तस्य यत्र यत्र रतिभावस्तत्र सर्वत्र शुभवेद्यतो दृश्यते, सातवेदनीयकर्मण उदय एव मुख्य कारणं भवति, विशिष्टज्ञानदशास्थिताः सम्यग्दृष्टयो निकाचितभोग्या वलिकर्मोदयेन सांसारिकविषयेषु बाह्यतो रमन्ते न तु मनसा ।।१४॥ ||८२|| -- अस्मिन् विषये आक्षेपकज्ञानतो भोगसान्निध्येऽपि न शुद्धिक्षयः 'श्रतश्चाक्षेपकज्ञानात् कान्तायां भोगसन्निधौ । न शुद्धिप्रक्षयो यस्माद्धारिभदमिदं वचः ॥१५॥ टीका:-'अतश्चाक्षेपकज्ञानात् 'रागवत्यामवस्थायां रममाणं मानसं, तत आक्षिपदाकर्षयद् विषयान् । प्रति सविवेकं ज्ञानं 'आक्षेपकज्ञान' तस्माद् , विशिष्टसम्यग् दृष्टीना ‘कान्तायां भोगसन्निधौ' कान्तानामकषष्ठीयोगदृष्टौ कामिन्यादिभोगोपभोगसामग्रयाः सान्निध्येऽपि 'शुद्धिप्रक्षयो न' वैराग्यादिरूपमानसिकनैर्मल्यस्य प्रकर्षेण क्षयो न भवत्यर्थाद् भोगस्य पाखें कायस्य सत्तायामपि मनस्तु मोझादौ रमते, योगदृष्टिसमुच्चये कान्तानामकषष्ठीयोग दृष्टौ भगवतो हरिभद्रसूरेरिदं वचोऽस्ति तदनेतनश्लोकेषु श्रूयताम् ॥१५॥ ८२॥ in h ominem For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy