________________
अध्यात्मसारः
11८
॥
यामपि सर्वथा वैराग्यमनासक्तिरूपं न भवतीति नाऽपितु भवत्येव 'स्वव्यापारहताऽऽसड्ग' वैराग्यवासिताऽध्यात्मक्रियाद्वारा हत-नष्टासक्तिरूपं वैराग्यं विशिष्टमम्यगदृष्टिप्रमातरि विद्यते एवार्थात्तेषु विषयप्रवृत्तेष्वप्यनासक्तिरूपं वैराग्यम प्रतिहतं भवत्येव, तथाच स्तवभाषितम्' भगवद्भि हेमचन्द्रसूरीश्वरैवीतरागस्तवे तथाच भाषितमस्ति ।।१२।।
-वीतरागस्तवस्य साक्षिरूपा गाथा - यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते ।
यत्र तत्र रति नाम विरक्तत्वं तदापि ते ॥१३॥ टीकाः-हे देवाधिदेव ? नाथ ! त्वया यदा सुरेन्द्रम्य नरेन्द्रस्य च श्रीरैश्वर्यमुपभुज्यते, तदाऽपि । यत्र तत्र रतिर्नाम विरक्तत्व-वैराग्यं ते-तव विद्यतेऽर्थाद् या काऽपि रति येत्र कुत्र दृश्यते तत्र सर्वत्र परमात्मनो वैराग्यमेव, स्वकीयसम्यम्प्रकृष्टदृष्टिबलात्प्रभू रागस्थानमपि वैराग्यस्थाने परिवर्त्तयते ॥१३॥
विरक्तस्य सर्वत्र रतिः शुभवेद्यत एव भवति भवेच्छा यस्य विच्छिन्ना, प्रवृत्तिः कर्मभावजा। रतिः साऽस्य विरक्तस्य, सर्वत्र शुभवेद्यतः ॥१४॥
ML
८१॥
Jain Education Interna
Far Private & Personal use only
www.jainelibrary.org