SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सार: टीका:-'सत्यं' युष्माकं कथनं सत्यं यत् 'समग्रसामग्रीरूपभवस्वरूपविज्ञानजन्यभवनैर्गुण्यादिअध्यात्म-II सत्त्वेऽपि वैराग्यकार्यरूपफलस्याऽभावोऽत्र-चतुर्थगुणस्थाने दृश्यते इत्येवं भवने कोऽपि-महाबलवान् , चारित्रमोहस्य चारित्रमोहनीयकर्मणो महिमा विद्यतेऽर्थात् , भवनैगुण्यदर्शनरूपकारणसत्तायामपि वैराग्य कार्य न निष्पद्यते तत्र तेषां सम्यग्दृष्टिरूपप्रमातॄणामत्युग्रचारित्रमोहनीयकर्मण उदयः प्रबलप्रतिबन्धको||८|| ऽस्त्येव तथा च कार्य प्रति सकलकारणसत्वेऽपि कश्चित् प्रपलः प्रतिबन्धक उपस्थितो भवेत्तदा सर्व कारणानि सम्भूय कार्य न जनयन्त्येव तस्मान्नैयायिकैः प्रतिबन्धकाऽभावोऽपि कारणत्वेन गणितोऽस्ति, एवं च सम्यग्दृष्टिप्रमातृगा भवनैगुण्यदर्शनम् , ततो भवद्वेपो, विपयेष्वप्रवत्तिरपि च कारणानि माव्यानि परन्तु तेषां सम्यग्दृष्टीनां विषयेषु प्रवृत्तिरस्ति, भवनैगुण्यदर्शनसत्त्वेऽपि, अत्युत्कटवैराग्यं नास्ति, यतस्तत्र चारित्रमोहनीयकर्मणो वलवदुदयरूपः प्रतिबन्धको विद्यमानोऽस्ति ॥११॥ विशिष्टदशासम्पन्ने सम्यग्दृष्टिप्रमातरि वैराग्सम्भवः दशाविशेषे तत्रापि न चेदं नास्ति सर्वथा । स्वव्यापारहताऽऽसङ्ग तथाच स्तवभाषितम् ॥१२॥ टी० ये सम्यग्दृष्टयः षष्ठीयोगदृष्टिप्राप्तिरूपाऽवस्थासम्पन्नाः सन्ति तेषु भवनैगुण्यदर्शनजन्यं मवेच्छानाशस्वरूपं वैराग्यं सम्भवत्येव विषयप्रवृत्ती सत्यामपि, तथाच शिष्ट विशददशा ।।८।। Jain Education Inter Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy