SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥७९॥ नाशरूपं वैराग्यमविच्छिन्नं भवेदेव नाऽन्यथा, निराबाधवैराग्यं प्रति द्वे हेतू सम्भवतः, (१) प्रथमो हेतुः, भवनैगुण्यदर्शनम् (२) द्वितीयो हेतुः, विषयेषु प्रवृत्तेरभावः ॥९॥ भवनैगुण्यदर्शनजन्यत्वरूपवैराग्यलक्षणेऽन्वय व्यभिचारः'चतुर्थेऽपि गुणस्थाने, नन्वेवं तत् प्रसज्यते । युक्तं खलु प्रमातृणां, भवनैगुण्यदर्शनम् ॥१०॥ टीका: ननु सम्यक्त्वनामकचतुर्थगुणस्थानेऽपि भवेच्छानाशरूपं वैराग्यं प्रसज्यते-अतिप्रसनापन्नं भवति, यतः चतुर्थगुणस्थाने प्रमातॄणां सम्यग्दृष्टिमतां भवनैगुण्यदर्शनं तु विद्यत एव, भवनैगुण्यदर्शनं तु वैराग्यरूपकार्य प्रति कारणमस्त्येव, सति कारणे कार्येण भाव्यम् , परन्तु चतुर्थे गुणस्थानके विशिष्टविषयवैराग्यं नास्त्येव यतस्तत्र विषयेषु प्रवत्तिरस्ति विषयेषु प्रवृत्तानां वैराग्यं कुतः । तथापि भवनैगुण्यदर्शनरूपकारणे विद्यमाने तत्र भवेच्छानाशरूपवैराग्यरूपकार्यापत्तिरिति चेत ? अन्वयव्यभिचारदोषनिवारणम्-- 'सत्यं, चारित्रमोहस्य, महिमा कोऽप्ययं खलु । यदन्यहेतुयोगेऽपि, फलाऽयोगोत्र दृश्यते ॥११॥ 1॥७९॥ Jain Education International For Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy