________________
अध्यात्म सार
॥७८||
विषयाधीने चित्ते वैराग्यप्रतिबिम्बाऽभावः'यदीन्दुः स्यात् कुहूरात्रौ, फलं यद्यवकेशिनि ।
तदा विषयसंसर्गिचित्ते वैराग्यसक्रमः ॥८॥ टीका:-'यदीन्दुः कुहूरात्रौ स्यात्' -यदा चन्द्रोऽमावास्यारात्रौ भवेत् , 'यद्यवकेशिनि फलं स्यात्' यदा फलवन्ध्यवृक्षे फलं भवेत् , 'तदा विषयसंसर्गिचित्ते वैराग्यसङ्कमः' विषयरससम्पृक्तमानसे-विषयवासनावासिताऽत्मपरिणामे वैराग्यप्रतिबिम्बसम्भवो भवेत् , विषयरागविरागयोः छायाऽऽतपवत् परस्परमेकत्राऽनवस्थानरूपविरोधः ॥८॥
निराधाधवैराग्यविवेचनम्‘मवहेतुषु तवेषा-द्विषयेष्वप्रवृत्तितः ।
वैराग्यं स्यान्निराबाधं, भवनैर्गुण्यदर्शनात् ॥६॥ टीकाः-'तद् भवनैगुण्यदर्शनात्' तस्मात् पूर्वकथनानुसारेण भवगतगुणा भावस्य प्रत्यक्षतः, 'भव-15 हेतुषु तद्वेषात्' संसारहेतुभूतमिथ्यात्वादीन्-संसारसुखहेतून् बनितादीन् प्रति तीव्रतमतिरस्कारात् , 'विषयेष्वप्रवृत्तितः संसारसुखजनकविषयेषु प्रवृत्तिप्रतिबन्धतः, वैराग्यं निराबाधं स्यात'भवसुखेच्छा
॥७८॥
Jan Education Interation
For Private & Personal use only
ww.jainelibrary.oro