________________
अध्यात्मसारः
॥७७॥
वैराग्यं प्रति विषयत्यागः कारणम्'अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति ।
थपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति ॥६॥ टीका:-'अकृत्वा विषयत्यागे' विषयाणामुपभोगं कृत्वा 'यो वैराग्यं दिधीति' यो वाह्यतो वैराग्यं दिधीति'-धत मिच्छति, 'सोऽपध्यमपरित्यज्य रोगोच्छेदमिच्छति' =कुपथ्यमत्यक्त्वा स मृखों रोगस्य समलमुच्छेदमिच्छति यथा रोगस्योच्छेदं प्रति कुपथ्यत्यागः कारणम् , तथा दैराग्यं प्रति विषयोपभोगत्यागः कारणम् ॥६॥
विषयाऽऽसक्ते चित्ते वैराग्यं न तिष्ठति'न चित्ते विषयासक्ते, वैराग्यं स्थातुमप्यलम् ।
श्रयोघन इवोत्तप्ते, निपतन् बिन्दुरम्भसः ॥७॥ टीका:-'न चित्ते विषयाऽऽसक्ते वैराग्यं स्थातुमयलम्'-विषयरसरसिके चित्ते-आत्मनि, वैराग्य-भवेच्छानाशरूपं वैराग्यं स्थातुमपि नाऽलं-क्षणमपि स्थिति कत्तुं न समर्थ, 'उत्तप्तेऽयोधने अम्भसो निपतन् बिन्दुरिव'-उत्कृष्टाग्नितापतप्ते लोहगोलके जलस्य बिन्दुर्निपतन्न स्थातु यथा समर्थस्तथाऽत्रापि ज्ञेयम् ॥७॥
॥७७1
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org