SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अध्यात्म भार: ||७६॥ विषयोपभोगेन पुनः कामो वर्धमानो भवति'विषयः क्षीयते कामो नेन्धनैरिव पावकः । प्रत्युत प्रोल्लसच्छक्ति-भूय एवोपवर्द्धते ॥४॥ टीकाः-इन्धनैः पावको न शाम्यति यथा, तथा विषयैः-कामभोगैः कामः वेदाऽऽख्यवासना न क्षीयते, 'प्रत्युत प्रोल्लसच्छक्ति' कामवासनाक्षयस्तु दरेऽस्तु प्रत्युत कामानामुपभोगेन प्रवर्धमानशक्तिशाली कामनामकः पावको 'भूय एवोपवर्द्धते'-पुनरेवाऽभिवर्धते, कामनाशं प्रति विषयसिद्धि न कारणम् , कामस्योत्तरोत्तरवृद्धि प्रति कामोपभोगः कारणम् , ॥४॥ विषयेष्ठ प्रवृत्तानां वैराग्यं दुर्लभम् - सौम्यत्वमिव सिंहानां, पन्नगानामिव क्षमा । विषयेषु प्रवृत्तानां, वैराग्यं खलु दुर्लभम् ॥५॥ ____टी० 'सिंहानां सोम्यत्वमिव'-सिंहेषु प्रकृतितः शान्तत्वं नास्ति ततः कथ्यते यथा सिंहेषु सौम्य त्वं दुर्लभम् , ‘पन्नगानामिव समा'-क्रोधप्रकृतीनां सर्पाणां क्षमा-सहनशीलता दुर्लभा, तथा खलु-निश्चये 'विषयेषु प्रवृत्तानां स्पर्शादिविषयेषु प्रवृत्तिशीलाना, वैराग्यं दुर्लभं-दुःखेन लभ्यत' इति ॥५॥ ७६। Jain Education Internatio For Private & Personal use only 'www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy