SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥ ४॥ अथ पैराग्यसम्भवाधिकारः पञ्चमः प्रारभ्यते पैराग्यशक्षणं निरूप्यते-- 'भवस्वरूपविज्ञानार् द्वेषान्नैर्गुण्यदृष्टिजात् । तदिच्छोच्छेदरूपं दाग वैराग्यमुपजायते ॥१॥ ___टीका:-'भवस्वरूपविज्ञानात्'-पूर्वाधिकारवर्णितभवस्वरूपविज्ञानजन्यं, 'नैगुण्यदृष्टिजाद् द्वेषात्'=भवो निर्गुणः-सदोषोऽस्तीति दृष्टिः सञ्जायते, भवनैगुण्यदृष्टितो भव-भवसुखं तत्साधनानि प्रति द्वेषोअरुचिः-रसाभावो जायतेऽत एव भवद्वेषजन्यं, 'तदिच्छोच्छेदरूपं वैराग्यं द्राग् जायते' नैगुण्यदृष्टिजन्यभवद्वेषजन्यं, 'तदिच्छोच्छेदरूपं वैराग्यं द्राग जायते' नैगुण्यदृष्टिजन्यभवद्वेषतो संसारभोगस्येच्छानाशो जायते, भवेच्छानाशरूपं-मोक्षतत्साधनमिन्नवैषयिकपुद्गलपदार्थमा प्रति रसासक्तिभावस्य नाशरूपं चैराग्यं झटिति सञ्जायते, वैराग्यस्योत्पत्तिक्रमश्चेत्थं (१) भवस्वरूपस्य विज्ञानं (२) ततो भवं प्रति नैगुण्यदृष्टिः (३) ततो भवं प्रति पूर्णद्वेषः (४) ततः भवीयसुखतत्साधनभोगेच्छानाशरूपं वैराग्यम् ॥ -विषयसौख्यसिद्धया वैराग्यमिति कमतस्य खण्डनम् 'सिद्धया विषयसौख्यस्य वैराग्यं वर्णयन्ति ये । मतं न युज्यते तेषां यावदर्थाऽप्रसिद्धितः ॥२॥ ॥७ ॥ Jan Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy