SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अध्यात्ममार: स्वात्ममात्रसापेक्षे, (२) अशयिणि शाश्वते (३) करगौत्सुक्यरहिते-इन्द्रियाणामाकुलतामुक्ते (४) प्रगलितभयाऽऽध्यात्मिकसुखे सर्वथासर्वभयरहिताऽऽध्यात्मिकसुखे निलीनास्तिष्ठन्ति-प्रलग्नाः सन्ति ॥२६॥ भवस्वरूपचिन्ताप्रकरणस्योपसंहारः-- 'तदेतद् भाषन्ते जगदभयदानं खलु भवस्वरूपाऽनुध्यानं शमसुखनिदानं कृतधियः । स्थिरीभूते यस्मिन्विधुकिरणकपुरविमला, यशः श्रीःप्रौदा स्याज्जिनसमयतत्त्वस्थितिविदाम् ॥२७॥ टीका:-त-तस्मात् , कृतधियः विद्वांसः, खलु-निश्चये, जगदभयदानं जगज्जन्तुभ्योऽभयस्य दानं यस्मात्तत् , संवेगतो निरपेक्षतया जगति भयदानाऽभावः, 'शमसुखनिदानं' शमनामकसुखस्य निदानंमूलकारणं, वैराग्यतो-बैतृष्ण्यतः प्रशमाऽऽनन्दनिदानं, एतद्भवस्वरूपाऽनुध्यानं-प्रत्यक्षतो दृश्यमानं भवस्वरूपचिन्तनं भाषन्ते, यस्मिन्-भवस्वरूपचिन्तने मनसि स्थिरीभूते सति, 'जिनसमयतत्वस्थितिविदा' =सर्वज्ञप्रणीतसिद्धान्तरहस्यस्थितिवेत्तणां, विधुकिरणकपूरविमला यशाश्रीः प्रौढा स्यादिति ॥२७॥ इत्याचार्यश्रीमद्विजयलब्धिमूरीश्वरपट्टघराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रङ्करसूरिणा कृतापामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां भवस्वरूपचिन्ताऽऽख्यश्चतुर्थोऽधिकारः समाप्तः ॥ ॥७३॥ Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy