________________
अध्यात्मसार:
॥७२॥
जनितात्मीयाऽऽभ्यन्तरीयराज्यलक्ष्मीः शाश्वती सत्या स्वतन्त्रैवेति बोध्यम् , या बहिः प्रेयस्यः--कान्तास्ता मनसि-आत्मनि, आत्मरतयः--आत्मस्वरूपरमणतानामिकाः प्रेयस्यः किमु न? अर्थात् , आत्मन आत्मरमणतानामकप्रेयसीं मुक्त्वा नाऽन्या, शाश्वतशर्मदायिनी प्रेयसी विद्यते, ततः तेन हेतुना स्वाधीनं सुखं करत्यजति ? अथ परमन्यत्सुखं क इच्छति ? न कोऽपीच्छति ॥२५॥
पराधीने सुखे को रमते च स्वाधीने सुखे के रमन्ते ?-- 'पराधीनं शर्म क्षयि विषयकाक्षौघमलिनम्, भवे भीतेः स्थानं तदपि कुमतिस्तत्र रमते । बुधास्तु स्वाधीनेऽक्षयिणि करणौत्सुक्यरहिते,
निलीनास्तिष्ठन्ति प्रगलितभयाऽऽध्यात्मिकसुखे ॥२६॥ टीकाः-भवीयं सुखं विशेषयति, तथाहि-भवे-भवीयं शर्म (१) पराधीनं-स्वात्मभिन्नपुद्गलपदार्थसापेक्षं, (२) क्षयि-क्षणविनश्वरं, (३) विषयकाङ्क्षौघमलिनं-विषयविषयकरसाऽऽसक्तितो मलिनम् , (४) भीतेः स्थानं-रोगादिदुर्गत्यादिमयस्य स्थानमधिष्ठानम् , समस्ति तदपि-तथापि, कुमतिः-दृष्टदृष्टिसृष्टिविशिष्टः, तत्र भवसुखे रमते-रमणतां कुरुते, परन्तु बुधाः-सम्यग्दृष्टिज्ञप्तिसम्पन्नाः, (१) स्वाधीने
॥७२॥
Jan Education in
SA
For Private & Personal use only