SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥७१॥ Jain Education Interna टीका:- अविद्यायां भवमाविद्य', आविद्यमेवाऽऽविद्यकमर्थात्, 'नित्यशुच्यात्मताख्यातिर नित्याशु चयनाऽत्मसु, अविद्येति लक्षणरूपाऽविद्याजन्या भवप्रपञ्चाः पाश्चालीकुचकलशवत्, निरवधिकं - निः सीमं काठिन्यं दधानाः, 'नातिरतिदाः = अतीव रतिं न ददतीत्येवंशीलाः, नातिरतिदाः, सामान्यरतिकरा भवन्ति परन्तु यदाऽज्ञाननामके - वार्दले गलति सति, प्रसृमररुचौ -विसारिकलाकिरणवति, आत्मनि विधौ - आत्मनामकचन्द्रे (आत्मनामकचन्द्रतः ) चिदानन्दस्यन्दः - ज्ञानाऽऽनन्दप्रवाहः सहजो भवतीति स्थिते 'तेभ्योऽस्तु विरति : ' = अविद्याजन्यभवप्रपञ्चेभ्यो विरामो भवत्वितीच्छा ॥२४॥ को मूर्खः स्वाधीनं सुखं त्यक्त्वा पराधीनं सुखमिच्छेत् ? 'भवे या राज्यश्री जतुरगगो सङ्ग्रहकृता, न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि बहिर्याः प्रेयस्यः किमु मनसि ता नाऽऽत्मरतयः, ततः स्वाधीनं कस्त्यजति सुखमिच्छत्यथ परम् ॥ २५॥ टीका :- भवे संसारे या गजतुरगगोसङ्गह- परिग्रहेण कृता राज्यश्रीरस्ति सा राज्यलक्ष्मीः स्वमनसि ज्ञानेन ध्यानेन प्रशमेन जनिता किं न १ अर्थाद् गजादिपरिग्रहकृतभवीयबाह्यराज्यलक्ष्मीतो ज्ञानादि For Private & Personal Use Only ॥७१॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy