________________
अध्यात्म
सारः
अकस्मादस्माकं परिकलिततत्त्वोपनिषदा
मिदानीमेतस्मिन्नरतिरपि तु स्वात्मनि रतिः ॥२३॥ टीकाः-प्रेयसीमधुरप्रियवाचा, वीणावादित्रादिश्रवणेन शय्याकोमलस्पर्शेन शरीरशुश्रूषासंस्कारसुगन्धपरिकर्मादिभिः जन्यैः सुखैः, अयं संसारः, पीयूषैरमृतै घटितो-निर्मापितोऽस्ति विधात्रेति मे-मदीया मति बुद्धिः पूर्वमभूदासीत् , अकस्माद्-निसर्गतो, परिकलिततचोपनिषदा-सम्यगवगततत्त्वरहस्यानाम स्माकमिदानीमधुना, एतस्मिन् प्रत्यक्षरूपेऽस्मिन् भवे न रती रमणता, अपितु-परन्तु, स्वात्मनि स्वाऽऽत्मस्वरूपे रतिरानन्द एवेति ॥२३॥
भवप्रपञ्चेभ्यो विरतिरस्तु'दधानाः काठिन्यं निरवधिकमाविद्यकभवप्रपञ्चाः पाञ्चालीकुचकलशवन्नातिरतिदाः । गलत्यज्ञानाऽभ्रे प्रसमररुचावात्मनि विधौ, चिदानन्दस्यन्दः सहज इति तेभ्योऽस्तु विरतिः ॥२४॥
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org