________________
अध्यात्म सारः
भवोऽयं मिथ्यारूप:'प्रभाते सआते भवति वितथा स्वापकलना, दिचन्द्रज्ञानं वा तिमिरविरहे निर्मलदृशाम् । तथा मिथ्यारूपः स्फुरति विदिते तत्त्वविषये,
भवोऽयं साधूनामुपरतविकल्पस्थिरधियाम् ॥२२॥ टीकाः-यथा प्रभाते सञ्जाते स्वापकलना=स्वप्नगतसमृद्धिर्वितथा-अथवा सुन्दर स्वप्नानां समृद्धि वितथाऽसत्या भवति, यथा वा तैमिरिकरोगस्य विरहे निर्मलदृशां पूर्वीथद्विचन्द्रज्ञानं मिथ्या भवति, तथा तचभूतविषये विज्ञाते सति, उपरता विकल्पा येषां तेऽतएव स्थिरा धी येषां तेषां साधूनां सत्पुरुषाणां भवोऽयं मिथ्यारूपो-मायारूपः स्फुरति--भासते ।।२२।।
इदानीं तु स्वात्मनि रतिरेव'प्रियावाणी वीणाशयनतनुसम्बाधनसुखै-- भवोऽयं पीयूष घटित इति पूर्व मतिरभूत् ।
॥६९॥
Jain Education Intem
Far Private & Personal use only
www.jainelibrary.org