________________
अध्यात्म सार:
॥६८॥
विदधति, अथ च क्षणं बहुधा-बहुभिः प्रकारैः खिद्यन्ति--विषादवन्तो भवन्ति, क्षणमपि रुदन्ति, क्रन्दन्तिपरिदेवनं कुर्वन्ति, क्षणं विवाद-कलहं विदधते, क्षणं पलायन्ते-द्रुतं द्रुतं धावन्ति, क्षणं मोहं--मृढतां दधति धारयन्ति, क्षणं परिनृत्यन्ति=विविधैः प्रकार हर्षेण नृत्यं कुर्वन्तिः ॥२०॥
भवक्रीडा दहति हृदयं तात्त्विकदृशाम्-- 'अपूर्णा विद्यव प्रकटखलमैत्रीव कुनयप्रणालीवाऽऽस्थाने विधववनिता यौवनमिव । अनिष्णाते पत्यो मृगद्दश इव स्नेहलहरी,
भवक्रीडाब्रीडा दहति हृदयं तात्त्विकदृशाम् ॥२१॥ टीका:--'अपूर्णा विद्येव'--पूर्णताविहीनज्ञानवत् (अल्पज्ञानं महाहानिकर ), 'प्रकटखलमैत्रीव' = नामाऽङ्कितदुर्जनेन सह मित्रतावत् 'कुनयप्रणालीवाऽऽस्थाने' सभायां न्यायतो विपरीतपद्धतिवत् , 'विधववनितायौवनवत्'-मृतपतिकाया वनिताया यौवनवत् 'अनिष्णाते पत्यो मृगदृश इव स्नेहलहरी"= शृङ्गाररसविविधप्रकाराऽनभिज्ञे स्वामिनि प्रियायाःस्नेहलहरीवद् व्रीडा लज्जाऽऽत्मिका, भवक्रीडा--कर्मकृतभवीयविविधलीला, ताचिका -तत्वपर्यन्तगामुकदृष्टिकाना, सम्यगदृशां, पूर्वकथितदृष्टान्तवद् दहति हृदयं--अशान्तं करोत्येव, व्रीडात्मकमवक्रीडात्याग एव हृदयं शीतं शान्तं शुद्धं जनयत्येवेति ॥२१॥
।।६८॥
Jain Education Intemato
For Private
Personal use only
'www.jainelibrary.org