________________
अध्यात्मसार
टीकाः-हीति निश्चये, इह-संसाररूपसमराङ्गणे 'मृगाक्षीदृग्वाणैनिहतं धर्मकटकम्' ललनानयनाऽपाङ्गदर्शनवेधककटाक्षलझबाणवणे धर्मनामकं सर्वथा संरक्षणीयसेनाकदम्बकं निहतं-खण्डखण्डशः कृतं, 'इह च बहुलै रागरुधिरै विलिप्ता हृद्देशाः' इह-यत्र भवसमराङ्गणे धर्मसैनिकानां हृदयप्रदेशा बहले रागनामकरुधिरै विलिप्ताः-खरण्टिताः, किश्च 'व्यसनशतगृघ्राश्च भ्रमन्त्यूचं कराः' विपत्तिशतनामकगृघाः ऋराःसन्त ऊर्ध्व भ्रमन्ति, यत्र संसारसमराङ्गणे तत-तस्मादियं खलु--निश्चये विजयहेतवे महामोहरूपमहाराजस्य रणभूमिरूपभव एवेति न संशयः ॥१९॥
भवे मोहोन्मादस्य प्रदर्शनम्'हसन्ति क्रीडन्ति क्षणमथ च खिद्यन्ति बहुधा' रुदन्ति क्रन्दन्ति क्षणमपि विवादं विदधते । पलायन्ते मोदं दधति परि नृत्यन्ति विवशाः,
भवे मोहोन्मादं कमपि तनुभाजः परिगताः ॥२०॥ टीका:-'भवे कमपि मोहोन्मादं परिगतास्तनुभाजः'अस्मिन् संसारे वचनाऽतीता मोहस्योन्मत्तता सर्वतः परिगताः शरीरिणः, विवशाः-विहवलाः सन्तः, क्षणं इसन्ति-हास्यं कुर्वन्ति, क्रीडन्ति-क्रीडा
॥६७|
॥६७॥
Jain Education Intemat
Far Private & Personal use only
www.jainelibrary.org