________________
अध्यात्म
सारः
॥६५॥
Jain Education Internation
टीका :- इह - अध्यात्मजगति, प्रियास्थानीया तत्वचिन्तनरूपा प्रेक्षा (बुद्धिविशेषः) पुत्रस्थानीयो गुरुजनादर बहुमानादिरूपो विनयो (धर्म प्रति मूलभूतो विनयोऽस्ति ) पुत्रीस्थानीया गुणरतिः - गुणिजनगणगुणाऽनुरागः) 'विवेकाऽऽख्यस्तात : ' = सारासारादिविवेचनशक्तिरूपः पिता, 'परिणतिर निन्द्या च जननी' = पवित्रप्रशस्ता परिणतिः -- परिणामधारा, जननी -मातृस्थानीया 'विशुद्धस्य स्वस्य स्फुरति कुटुम्बं हि स्फुटमिदं ' = विशुद्धिविशिष्टस्य स्वस्याऽऽत्मनः, हीति निश्वये, इदं स्पष्टं प्रेक्षाप्रियादिरूपं कुटुम्बं स्फुरति विलसति, तत्-- स्वाऽऽत्मकुटुम्बं 'भवे नो दृष्टं ' = अदृष्टपूर्वमिदमाध्यात्मिक कुटुम्बमस्ति, 'तदपि त संयोगसुखधीः' - तथापि खेदजनिकेयं कथा यत् पौद्गलिकसंयोगेषु दुःखपरम्पराजनकेषु सुखाभावेषु सुखबुद्धि भ्रमात्मिकां जीवः करोति, पुद्गलद्रव्यस्य न गुणः सुखं, चेतनस्य गुणः सुखं सुखाभाववति संयोगात्मक मनोज्ञपुद्गलद्रव्ये सुखकल्पना भ्रमः, यथा रजतत्वाभाववत्यां शुक्तिकायां रजतमिदमिति बुद्धि मिथ्याज्ञानाऽऽत्मिका भ्रान्ता ॥१७॥
अस्मिन् संसारे क्वचिदपि सुखं न'पुरा प्रेमारम्भे तदनु तदविच्छेदघटने, तदुच्छेदे दुःखान्यथ कठिनचेता विषहते
For Private & Personal Use Only
॥६५॥
www.jainelibrary.org