SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्याद् न्तरात् तदुपलम्भसम्भावना, तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् ; उपलम्भान्तरसम्भावने | चानवस्था; अर्थोपलम्भात् तस्योपलम्भे--अन्योन्याश्रयदोषः।। ॥८६॥ अथार्थप्राकट्यमन्यथा नोपपद्येत-यदि ज्ञानं न स्यात् , इत्यर्थापत्या तदुपलम्भ इति चेत् । न तस्या अपि ज्ञापकत्वेनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषाऽऽपत्तेः-तदवस्था परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयाऽपि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम् । नन्वनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः । प्रयोगस्तु--ज्ञानमनुभवरूपमप्यनुभूतिर्न भवति, 8| अनुभाव्यत्वाद्, घटवत् , अनुभाव्यं च भवद्भिरिष्यते ज्ञानं, स्वसंवेद्यत्वात् । मैवम् ; ज्ञातुर्ज्ञातृत्वेनेवानुभूते रनुभूतित्वेनैवानुभवात् । नचानुभूतेरनुभाव्यत्वं दोषः; अर्थापेक्षयाऽनुभूतित्वात् स्वापेक्षया चानुभाव्यत्वात् । स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाभावात् । ____ अनुमानाच्च स्वसंवेदनसिद्धिः । तथाहि- ज्ञानं स्वयंप्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात् , प्रदीपवत् । संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति चेत् । न; अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः। ननु नेत्रादयः प्रकाशका अपि खं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्तिकतेति चेत् । नात्र नेत्रा १ चानुभाध्यानुभूतित्वात् , प्रदीपवत्त , यथा प्रदीपस्यार्थापेक्षया प्रकाशकत्वं स्वापेक्षया प्रकाश्यप्रकाशकत्वमित्यधिकोऽपि पाठ उपलभ्यते । ००००००००००००००००००००००००००००००००००००००००००० - ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy