________________
स्याद्०
॥८५॥
Jain Education
इत्थमक्षरमनिकां विधाय भावार्थ: प्रपञ्च्यते- भट्टास्तावदिदं वदन्ति - यज् ज्ञानं स्वसंविदितं न भवति, स्वात्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटवदुः स्वस्कन्धमधिरोढुं पटुः, न च सुतीक्ष्णाऽप्यसिधारा स्वं छेत्तुमाहितव्यापाराः ततश्च परोक्षमेव ज्ञानमिति । तदेतन्न सम्यक् ; यतः - किमुत्पत्तिः स्वात्मनि विरुध्यते, ज्ञप्ति । यद्युत्पत्तिः - सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ | ज्ञप्ति :- नेयमात्मनि विरुद्धा; तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् ; प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशकोsस्तु, आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः ?, इति चेत्; तत्किं तेन वराकेणाऽप्रकाशितेनैव स्थातव्यम्, आलोकान्तराद् वाऽस्य प्रकाशेन भवि तव्यम् ? । प्रथमे प्रत्यक्षवाधः द्वितीयेऽपि सैवानवस्थाssपत्तिश्च ।
अथ नासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः ; प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । चिरञ्जीव; नहि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः; ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं स्वं जानामीति कर्मतयाऽपि तद्भाति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथित एव ।
यस्तु स्वात्मनि क्रियाविरोधो दोष उद्भावितः सोऽयुक्तः अनुभवसिद्धेऽर्थे विरोधासिद्धेः; घटमहं जानामीत्यादौ कर्तुकर्मवद् ज्ञप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिध्यति ; न च ज्ञाना
ational
-
For Private & Personal Use Only
|||८५॥
nelibrary.org