SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ .८ . . . .. स्याद० ॥८७|| दिभिरनैकान्तिकता- तेषां लब्ध्युपयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः। तथा संवित् स्वप्रकाशा, अर्थप्रतीतित्वात् , यः स्वप्रकाशो न भवति नासावर्थप्रतीतिः, यथा घटः। तदेवं सिद्धेऽपि प्रत्यक्षानुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे "सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं, | ततोऽर्थप्राकट्य, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलम्भः" इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव । यौगास्त्वाहुः-ज्ञानं स्वाऽन्यप्रकाश्यम् , ईश्वरज्ञानाऽन्यत्वे सति प्रमेयत्वात् , घटवत् । समुत्पन्नं हि ज्ञानमेकात्मसमवेताऽनन्तरोत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । नचैवमनवस्था, अर्थावसायिज्ञानो| त्पादमात्रेणैवार्थसिद्धौ प्रमातुः कृतार्थत्वात् । अर्थज्ञानजिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति । तदयुक्तम्- पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । तथाहि-विवादाऽऽस्पदं | ज्ञानं स्वसंविदितं, ज्ञानत्वात् ; ईश्वरज्ञानवत् । नचायं वाद्यप्रतीतो दृष्टान्तः, पुरुषविशेषस्येश्वरतया जैनैरपि | स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धः। . व्यर्थविशेष्यश्चात्र तव हेतुः- समर्थविशेषणोपादानेनैव साध्यसिद्धेः अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवद्, ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वात्। न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं वा ज्ञानमस्ति, ||८७|| Jain Education lotional For Private & Personal Use Only wilsinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy