SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥६ ॥ स्याद् मनोवत् प्रवेशाप्रतिबन्धकत्वात् । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुकादावनुप्रवेशो न निषि॥७|| ध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिषिध्यत इति महच्चित्रम् । ___अथाऽऽत्मनः कायपरिमाणत्वे-बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् । किं || तत्परिमाणपरित्यागात् , तदपरित्यागाद् वा। परित्यागात् चेत् , तदा शरीरवत् तस्याऽनित्यत्वप्रसङ्गात्-पर- ||२|| लोकाधभावानुषङ्गः। अथाऽपरित्यागात् । तन्नः पूर्वपरिमाणाऽपरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुप- ॥ पत्तेः । तदयुक्तम् ; युवशरीरपरिमाणाऽवस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाऽसम्भवात् ; विफणावस्थोत्पादे सर्पवत् । इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् । ___ अथाऽऽत्मनः कायपरिमाणत्वे-तत्खण्डने खण्डनप्रसङ्गः, इति चेत्-कः किमाह ? शरीरस्य खण्डने कथश्चित् तत्खण्डनस्येष्टत्वात् शरीरसम्बद्धाऽऽत्मप्रेदेशेभ्यो हि कतिपयाऽऽत्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानादात्मनः खण्डनमः तच्चान विद्यत एवः अन्यथा शरीरात प्रथम्भतावयवस्य कम्पोपलब्धिर्न स्यात । न च खण्डितावयवानुपविष्टस्याऽऽत्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः तत्रैवानुप्रवेशात् । नचैकत्र सन्तानेऽनेके आत्मानः | अनेकार्थप्रतिभासिज्ञानानामेकममात्राधारतया प्रतिभासाभावप्रसङ्गात् ; शरीरान्तरव्यवस्थितानेकज्ञानावसे ॥६ यार्थसंवित्तिवत् । ॥ Jain Education Itional For Private & Personal Use Only 16 lainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy