SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥६०॥ स्वादु०संयोग संयोगाऽऽरभ्यत्वं दृष्टम्। कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुनोदरायाकारस्यास्योत्पत्तिमतीतेः । द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वम्। तच्च बहिरिवान्तरप्यनुभूयत एव; ततवात्माऽपि स्यात् कार्यः। न च पटादौ खावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे । लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात प्रमाणबाधनमुभयत्रापि तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाऽभावोऽनुषज्यतेः कथञ्चिदनित्यत्वे सत्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरूपम् ; तच्चैकान्तनित्यत्वे कथमुपपद्यते ?; अवस्थाभेदात् ; अन्या ह्यनुभवावस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चावस्थावतोऽपि भेदादेकरूपत्वक्षतेः । || कथञ्चिदनित्यत्वं युक्त्याऽऽयातं केन वार्यताम् । al अथाऽऽत्मनः शरीरपरिमाणत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद् मूर्ते मूर्तस्यानुप्रवेशविरोधात्ततो | ६ निरात्मकमेवाखिलं शरीरं प्रामोतीति चेत् : किमिदं मूर्तत्वं नाम ?-असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा। तत्र नाद्यः पक्षो दोषाय, संमतत्वात् । द्वितीयस्त्वयुक्तः-व्याप्त्यभावात् । नहि यदसर्वगतं तद् नियमेन । ६ रूपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपि भवन्मते तदसंभवात् । आकाशकालदिगात्मनां सर्व18 गतत्वं, परममहत्त्वं, सर्वसंयोगिसमानदेशत्वं चेत्युक्तत्वाद्- मनसो वैधात् , सर्वगतत्वेन प्रतिषेधनात् ॥६॥ a अतोनात्मनः शरीरेऽनुप्रवेशानुपपत्तिः, येन निरात्मकं तत् स्यात् , असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य । . . . . Jain Education In Lonal For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy