________________
॥५९॥
स्याद् || विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् ।
अथास्तु यथाकथश्चिच्छरीरोत्पत्तिः, तथापि सावयवं शरीरम् । प्रत्यवयवमनुमविशन्नात्मा सावयवः स्यात् । तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः; कार्यत्वे चासो विजातीयः सजातीयैर्वा कारणैरारभ्येत?; न तावद्विजातीयैः-तेषामनारम्भकत्वात् । न हि तन्तवो घटमारभन्ते । न च सजातीपैः-यत आत्मत्वाभिसम्बन्धादेव तेषां कारणानां सजातीयत्वम् : पार्थिवादिपरमाणूनां विजातीयत्वात्। तथा चात्मभिरात्मा आरभ्यत इत्यायातम् । तच्चाऽयुक्तम् । एकत्र शरीरेऽनेकाऽऽत्मनामात्माऽरम्भकाणामसम्भवात; सम्भवे वा प्रतिसन्धानाऽनुपपत्तिः, न ह्यन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति; अतिप्रसङ्गात् । तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् । तस्माद्व्यापक एवाऽऽत्मा युज्यते, कायप्रमाणतायामुक्तदोषसद्भावादिति चेत् । न; सावयवत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयवत्वं तावद्असंख्येयप्रदेशाऽऽत्मकत्वात् । तथा च द्रव्यालङ्कारकारौ-"आकाशोऽपि सदेशः, सकृत्सर्वमृर्ताभिसम्बन्धाहत्वात् " इति । यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र सूक्ष्मेक्षिका चिन्त्या । प्रदेशेष्वप्यवयवव्यवहारात्- कार्यत्वं तु वक्ष्यामः ।
नन्वात्मनां कार्यत्वे घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवाऽऽरभ्यत्वप्रसक्तिः; अवयवा ह्यवयविनमारभन्ते, यथा- तन्तवः पटमिति चेत् ; न वाच्यम् । न खलु घटादावपि कार्ये माक्मसिद्धसमानजातीयकपाल
॥५९॥
Jain Education Intell
hal
For Private & Personal Use Only
www.galrnelibrary.org