________________
स्याद्०
॥५७॥
तस्य वैयर्थ्यादिति " |
अथास्त्यदृष्टमात्मनो विशेषगुणः; तच्च - सर्वोत्पत्तिमतां निमित्तं, सर्वव्यापकं चः कथमितरथा द्वीपान्तरादिष्वपि प्रतिनियतदेशवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनाऽऽदीनि तेनोत्पाद्यन्ते । गुणश्च गुणिनं विहाय न वर्तते, अतोऽनुमीयते सर्वगत आत्मेति । नैवम् अदृष्टस्य सर्वगतत्वसाधने प्रमाणाभावात् । अथास्त्येव प्रमाणं वह्नेरूर्ध्वज्वलनं, वायोस्तिर्यक्पवनं चादृष्टकारितमिति चेत् । नः तयोस्तत्स्वभावत्वादेव तत्सिद्धेः; दहनस्य दहनशक्तिवत् । साऽप्यदृष्टकारिता चेत्, तर्हि जगत्त्रयवै चित्रीसूत्रणेऽपि तदेव सूत्रधारायतां, किमीश्वरकल्पनया ?; तन्नायमसिद्धो हेतुः । न चानैकान्तिकः - साध्यसाधनयोर्व्याप्तिग्रहणेन व्यभिचाराभावातु । नापि विरुद्धः - अत्यन्तं विपक्षव्यावृत्तत्वात् । आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते, ततो गुणिनाऽपि तत्रैव भाव्यम् ; इति सिद्धः कायप्रमाण आत्मा ।
अन्यच्च, त्वयाऽऽत्मनां बहुत्वमिष्यते; "नानाऽऽत्मानो व्यवस्थातः” इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्पर । नुवेधे तदाश्रितशुभाशुभकर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेद्, इतरस्याऽशुभकर्मणा चान्यो दुःखीत्य समञ्जसमापद्येत । अन्यच्च, एकस्यैवात्मनः स्वोपाशुभकर्मविपाकेन सुखित्वं, परोपार्जिताऽशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनम
१ 'परस्परानुरोधे' इत्यपि पाठः ।
Jain Education Intonal
For Private & Personal Use Only
॥५७॥
nelibrary.org